॥ श्रीगणेशाय नमः ॥

॥ ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः ॥

॥ अनुष्टुप्‌ छन्दः ॥ श्रीमृत्युंञ्जयो देवता ॥ गौरी शक्तिः ॥

॥ मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं च जपे विनियोगः ॥

॥ अथ ध्यानम् ॥ चन्द्रार्कानिविलोचनमं स्मितमुखं पद्मद्वयान्तःस्थितं मुद्रापाशमृगाक्षसूत्रविलसत्पार्णि हिमांशुप्रभम् ॥

॥ कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥

ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥१॥

नीलकण्ठं कालमूर्ति कालज्ञं कालनाशनम् ॥
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥२॥

नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥३॥

वामदेवं महादेवं लोकनाथं जगद्‌गुरुम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥४॥

देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥५॥

गङ्गाधरं महादेवं सर्वाभरणभूषितम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥६॥
अनाथं परमानन्दं कैवल्यपददायिनम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥७॥

स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥८॥

उत्पत्तिस्थितिसंहारकर्त्तारमीश्वरं गुरुम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥९॥

मार्कण्डेयकृतं स्तोत्र यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥१०॥

शतावर्तं प्रकर्तव्यं संकटे कष्टनाशनम् ।
शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥११॥

मृत्युञ्चय महादेव त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगै पीडितं कर्मबन्धनेः ॥१२॥

तावतस्त्वद्‌गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यंबकाख्यमनुं जपेत् ॥१३॥

नमः शिवाय साम्बाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥१४॥

शताङ्गायुर्मन्त्रः ॥ ॐ ह्री श्रीं ह्रीं ह्रौं ह्रें ह्रः हन हन दह दह पच पच गृहाण गृहाण मारय मारय मर्दय मर्दय
महामहाभैरव भैरवरूपेण धुनुय धुनुय कम्पय कम्पय विघ्नय विघ्नय विश्वेश्वर क्षोभय क्षोभय कटु कटु मोहय मोहय हंफट्‌ स्वाहा । इति मन्त्रमात्रेण लब्धाभीष्टो भवति ॥१५॥

॥ इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृतं महामृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥